Odyssey of Life

Journey that shares spiritual lessons and experiences, just out of joy of sharing.

Chapter 15 verses – 15.1 to 15.20

श्रीभगवानुवाच ।
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५-१॥

सन्धिः

प्राहुरव्ययम्  = प्राहुः (ससजुषो रुः) + अव्ययम्
यस्तं = यः (विसर्जनीयस्य सः) + तम्
स वेदवित् = सः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि) +  वेदवित्

पदपरिचय
पदपदप्रकारप्रातिपादीक  (अन्त, लिंग, विभक्ति, वचन) /
धातु , गण (पद , लकार , पुरुष , वचन)
Translation
श्रीभगवान्सुबन्तश्रीभगवत् (त् , पु , १ , एक)Shri Bhagavaan (Lord Krishna)
उवाचतिङ्न्तब्रू , २  (प , लिट् , प्र , एक)(He) Spoke
ऊर्ध्वमूलम्सुबन्तऊर्ध्वमूल (अ , नपु , १ , एक)Roots above
अधःशाखम्सुबन्तअधःशाख (अ , नपु , १ , एक)Branches below
अश्वत्थम्सुबन्तअश्वत्थ (अ , नपु , १ , एक)Ashwath tree (Pipal tree)
प्राहुः (प्र – आहुः)तिङ्न्तब्रू , २  (प , लट् , प्र , ब)They speak of
अव्ययम्सुबन्तअव्यय (अ , नपु , १ , एक)indestructible
छन्दांसिसुबन्तछन्दस् (स् , नपु , २ , ब)Vedas
यस्यसुबन्तयद्  (द् – सर्व , नपु , ६, एक)Of which
पर्णानिसुबन्तपर्ण (अ , नपु ,  १ , ब)leaves
यःसुबन्तयद्  (द् – सर्व , पु , १, एक्)One who
तम्सुबन्ततत्  (त् – सर्व , पु , २ , एक्)that
वेदतिङ्न्तविद् , २  (प , लट् , प्र , एक)(He) knows
सःसुबन्ततत्  (त् – सर्व , पु , १ , एक)He
वेदवित्सुबन्तवेदवित्  (त् , पु ,  १ , एक)Knower of Veda
अन्वयः

श्रीभगवान् उवाच ।
ऊर्ध्वमूलम् अधःशाखम् अश्वत्थम् अव्ययम् (इति) प्राहुः । यस्य पर्णानि छन्दांसि यः तम् सः वेद वेदवित् (भवति) ॥

Shri Bhagavan said: They speak of the indestructible Ashvatha tree, having its roots above and branches below, whose leaves are the vedas. The one who knows it, he becomes knower of vedas.


अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
        गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसन्ततानि
        कर्मानुबन्धीनि मनुष्यलोके ॥ १५-२॥

सन्धिः

अधश्चोर्ध्वं = अधः (विसर्जनीयस्य सः, स्तोः श्चुना श्चुः) + च (आद्गुणः) + उर्ध्वम्
प्रसृतास्तस्य  = प्रसृताः (विसर्जनीयस्य सः) + तस्य
अधश्च = अधः (विसर्जनीयस्य सः, स्तोः श्चुना श्चुः) +च
मूलान्यनुसन्ततानि = मूलानि (इको यणचि) +अनुसन्ततानि
कर्मानुबन्धीनि = कर्म (अकः सवर्णे दीर्घः) + अनुबन्धीनि

पदपरिचय
पदपदप्रकारप्रातिपादीक  (अन्त, लिंग, विभक्ति, वचन) /
धातु , गण (पद , लकार , पुरुष , वचन)
Translation
अधःअव्ययNABelow
अव्ययNAand
उर्ध्वम्अव्ययNAAbove
प्रसृताःसुबन्तप्रसृता  (आ , स्त्री , २, ब)spread
तस्यसुबन्ततत्  (त् – सर्व , पु ,  ६ , एक)its
शाखाःसुबन्तशाखा  (आ , स्त्री , १, ब)branches
गुणप्रवृद्धाःसुबन्तगुणप्रवृद्धा  (आ , स्त्री , १, ब)Nourished by Guna
(Sattva, Rajas, Tamas)
विषयप्रवालाःसुबन्तविषयप्रवाला  (आ , स्त्री , १, ब)Sense objects (are) its buds
मूलानिसुबन्तमूल  (अ , नपु , १, ब)Roots
अनुसन्ततानिसुबन्तअनुसन्तत (अ , नपु , २, ब)Are stretched forth
कर्मानुबन्धीनिसुबन्तकर्मानुबन्धिन् (न् , नपु , १ , ब )Binding by action repeatedly
मनुष्यलोकेसुबन्तमनुष्यलोक  (अ , पु , ७ , एक)In the world of humans
अन्वयः

तस्य गुणप्रवृद्धाः विषयप्रवालाः शाखाः अधः च उर्ध्वम् प्रसृताः (सन्ति) । मनुष्यलोके कर्म अनुबन्धीनि मूलानि अधः अनुसन्ततानि च (भवन्ति) ॥

Its branches, nourished by gunas, with sense objects as its buds, are spread above and below. And below, in the realm of humans, stretched forth its roots, originating from actions.


न रूपमस्येह तथोपलभ्यते
        नान्तो न चादिर्न च सम्प्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूलं
        असङ्गशस्त्रेण दृढेन छित्त्वा ॥ १५-३॥

सन्धिः

रूपमस्येह = रूपम् + अस्य (आद्गुणः) +  इह
तथोपलभ्यते = तथा (आद्गुणः) + उपलभ्यते
नान्तो न = न (अकः सवर्णे दीर्घः) + अन्तः (हशि च , आद्गुणः) + न
चादिर्न = च (अकः सवर्णे दीर्घः) + आदिः (ससजुषो रुः) + न

पदपरिचय
पदपदप्रकारप्रातिपादीक  (अन्त, लिंग, विभक्ति, वचन) /
धातु , गण (पद , लकार , पुरुष , वचन)
Translation
अव्ययNANo
रूपम्सुबन्तरूप (अ , नपु , १ , एक)Form
अस्यसुबन्तइदम्  (म् – सर्व , पु , ६, एक)Its
इहअव्ययNAHere
तथाअव्ययNAas
उपलभ्यतेतिङ्न्तलभ् , १ (आ, लट् , प्र , एक)is perceived
अन्तःसुबन्तअन्त (अ , पु , १ , एक)End
आदिःसुबन्तआदि (इ , पु , १ , एक)origin
सम्प्रतिष्ठासुबन्तसम्प्रतिष्ठा (आ , स्त्री , १ , एक)foundation
अश्वत्थम्सुबन्तअश्वत्थ (अ , नपु , २, एक)Ashwatham tree (Pipal tree)
एनम् सुबन्तइदम्  (म् – सर्व , पु , २ , एक)this
सुविरूढमूलम्सुबन्तसुविरूढमूल (अ , नपु , २ , एक)Deeply / firmly rooted
असङ्गशस्त्रेणसुबन्तअसङ्गशस्त्र (अ , नपु , ३ , एक)With Weapon of non-attachment
दृढेनसुबन्तदृढ (अ , नपु , ३ , एक)With firmness
छित्त्वाकृदन्तछिद् + इट् + त्वा (क्त्वान्त)Having cut
अन्वयः

इह अस्य  रूपम् तथा उपलभ्यते न । न  अन्तः न आदिः च न सम्प्रतिष्ठा (अस्ति) च । एनम्  सुविरूढमूलम् अश्वत्थम् असङ्गशस्त्रेण दृढेन छित्त्वा ॥

Having cut this firmly rooted ashwatha tree with axe of non-attachment, its form is not perceived here as such, no beginning, no end, nor its foundation.


ततः पदं तत्परिमार्गितव्यं
        यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये ।
        यतः प्रवृत्तिः प्रसृता पुराणी ॥ १५-४॥

सन्धिः

यस्मिन्गता न = यस्मिन् + गताः (हलि सर्वेषाम्) + न

अन्वयः

ततः तत् पदम् परिमार्गितव्यम् यस्मिन् गता भूयः न निवर्तन्ति । यतः पुराणी प्रवृत्तिः प्रसृता तम् आद्यम् एव च पुरुषम् प्रपद्ये ॥

Then that goal should be sought after, where having gone, none ever returns. Seek refuge in that primal being from which all ancient activities were streamed forth.


निर्मानमोहा जितसङ्गदोषा
        अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै-
        र्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ १५-५॥

सन्धिः

द्वन्द्वैर्विमुक्ताः = द्वन्द्वैः (ससजुषो रुः) + विमुक्ताः
सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः = सुखदुःखसंज्ञैः (ससजुषो रुः) + गच्छन्ति (इको यणचि) + अमूढाः
पदमव्ययं  = पदम् +  अव्ययम्

अन्वयः

निर्मानमोहाः जितसङ्गदोषाः अध्यात्मनित्याः विनिवृत्तकामाः सुखदुःखसंज्ञैः द्वन्द्वैः विमुक्ताः अमूढाः तत् अव्ययम् पदम् गच्छन्ति ॥

Free from pride and delusion, victorious over evils of attachment, ever established in Self, retired from all desires, freed from pairs of opposites such as pleasure and pain, the undeluded reach that eternal goal.


न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ १५-६॥

सन्धिः

तद्भासयते = तत् (झलां जशोऽन्ते) + भासयते
सूर्यो न = सूर्यः (हशि च, आद्गुणः) + न
शशाङ्को न = शशाङ्कः (हशि च, आद्गुणः) + न
यद्गत्वा = यत् (झलां जशोऽन्ते) + गत्वा
तद्धाम = तत् (झलां जशोऽन्ते) + धाम

अन्वयः

सूर्यः तत् न भासयते । न शशाङ्कः । न पावकः । यत् गत्वा न निवर्तन्ते ,  तत् मम परमम्  धाम (भवति) ।

Neither does the Sun, shine there, nor moon, nor fire. Having gone there, they never return; that is my supreme abode.


ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ १५-७॥

सन्धिः

ममैवांशो जीवलोके = मम (वृद्धिरेचि) + एव (अकः सवर्णे दीर्घः) + अंशः (हशि च, आद्गुणः) + जीवलोके
मनःषष्ठानीन्द्रियाणि = मनःषष्ठानी (अकः सवर्णे दीर्घः) + इन्द्रियाणि

अन्वयः

जीवलोके जीवभूतः मम एव सनातनः अंशः (भवति) । (सः जीवः) प्रकृतिस्थानि इन्द्रियाणि मनःषष्ठानी कर्षति ॥

In the world of life, embodied soul is indeed my eternal fragment. Abiding in prakriti (that embodied soul) attracts (five) senses and sixth mind.


शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ १५-८॥

सन्धिः

यदवाप्नोति = यत् (झलां जशोऽन्ते) + अवाप्नोति
यच्चाप्युत्क्रामतीश्वरः = यत् (स्तोः श्चुना श्चुः) + च (अकः सवर्णे दीर्घः) + अपि (इको यणचि) + उत्क्रामति (अकः सवर्णे दीर्घः) + ईश्वरः
गृहीत्वैतानि = गृहीत्वा (वृद्धिरेचि) + एतानि
वायुर्गन्धानिवाशयात्  = वायुः (ससजुषो रुः) + गन्धान् + इव (अकः सवर्णे दीर्घः) + आशयात्

अन्वयः

ईश्वरः  यत् शरीरम् अवाप्नोति यत् (शरीरम् ) उत्क्रामति अपि  च । वायुः आशयात् गन्धान् इव  एतानि गृहीत्वा संयाति ॥

When the lord obtains the body and when he leaves it, he takes these (senses and mind) and leaves, as wind takes fragrance from its seat (flowers).


श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ १५-९॥

सन्धिः

मनश्चायं = मनः (विसर्जनीयस्य सः, स्तोः श्चुना श्चुः) + च (अकः सवर्णे दीर्घः) + अयम्

अन्वयः

अयम् श्रोत्रम् चक्षुः स्पर्शम् रसनम् घ्राणम् च मनः च अधिष्ठाय एव विषयान् उपसेवते ।

Presiding over the ear, the eye, the touch, the taste and the smell, and even the mind, he (jeeva) enjoys sense objects.


उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १५-१०॥

सन्धिः

वापि  = वा (अकः सवर्णे दीर्घः) + अपि
विमूढा नानुपश्यन्ति = विमूढाः (हलि सर्वेषाम्) + न (अकः सवर्णे दीर्घः) + अनुपश्यन्ति

अन्वयः

उत्क्रामन्तम् स्थितम् भुञ्जानम् वा अपि गुणान्वितम् (जीवम्) वा विमूढाः न अनुपश्यन्ति । ज्ञानचक्षुषः पश्यन्ति ।

The deluded, who departs, stays and enjoys, united with guna, do not see (Him). Possessor of “eye of knowledge” sees (Him).


यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ १५-११॥

सन्धिः

यतन्तो योगिनश्चैनं  = यतन्तः (हशि च, आद्गुणः) + योगिनः (विसर्जनीयस्य सः, स्तोः श्चुना श्चुः) + च (वृद्धिरेचि) + एनम्
पश्यन्त्यात्मन्यवस्थितम् = पश्यन्ति (इको यणचि) + आत्मनि (इको यणचि) + अवस्थितम्
यतन्तोऽप्यकृतात्मानो नैनं = यतन्तः (अतो रोरप्लुतादप्लुते) +अपि (इको यणचि) + अकृतात्मानः (हशि च, आद्गुणः) + न  (वृद्धिरेचि) + एनम् 
पश्यन्त्यचेतसः = पश्यन्ति (इको यणचि) + अचेतसः

अन्वयः

यतन्तः योगिनः च एनम् (जीवम्) आत्मनि अवस्थितम् पश्यन्ति । अकृतात्मानः यतन्तः अपि अचेतसः (सन्) एनम् न पश्यन्ति ॥

Yogis striving for perfection sees Him in dwelling in the Self. Unintelligent, unrefined does not see Him, even though striving.


यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १५-१२॥

सन्धिः

यदादित्यगतं = यत् (झलां जशोऽन्ते) +आदित्यगतम्
तेजो जगद्भासयतेऽखिलम् = तेजः (हशि च, आद्गुणः) + जगत् (झलां जशोऽन्ते) + भासयते (एङः पदान्तादति) + अखिलम्
यच्चन्द्रमसि = यत् (स्तोः श्चुना श्चुः) + चन्द्रम् + असि
यच्चाग्नौ = यत् (स्तोः श्चुना श्चुः) + च (अकः सवर्णे दीर्घः) + अग्नौ
तत्तेजो विद्धि  = तत् + तेजः (हशि च, आद्गुणः) +  विद्धि

अन्वयः

आदित्यगतम् यत् तेजः चन्द्रम् असि यत् तेजः अग्नौ च यत् (तेजः) अखिलम् जगत् भासयते । तत् (सर्वम्) मामकम् (तेजः) विद्धि ॥

That light which is presiding in the Sun, which is the moon and the fire, illuminates the entire world. Know all that light as mine.


गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ १५-१३॥

सन्धिः

धारयाम्यहमोजसा = धारयामि (इको यणचि) + अहम् + ओजसा
चौषधीः  = च (वृद्धिरेचि) + औषधीः
सोमो भूत्वा = सोमः (हशि च, आद्गुणः) + भूत्वा

अन्वयः

अहम् गाम् आविश्य ओजसा भूतानि धारयामि | रसात्मकः सोमो भूत्वा सर्वाः औषधीः पुष्णामि च |

Permeating the earth, I support all beings by (my) light. Having become nourishing moon, (I) nourish all herbs as well.


अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १५-१४॥

सन्धिः

वैश्वानरो भूत्वा = वैश्वानरः (हशि च, आद्गुणः) + भूत्वा
पचाम्यन्नं = पचामि (इको यणचि) + अन्नम्

अन्वयः

अहम् वैश्वानरः भूत्वा प्राणिनाम् देहम् आश्रितः अस्मि । प्राणापानसमायुक्तः चतुर्विधम् अन्नम् पचामि ॥

Having become vaishvanara, I exist in body of all beings. Associated with Prana and Apana, (I) digest four types of food.


सर्वस्य चाहं हृदि सन्निविष्टो
        मत्तः स्मृतिर्ज्ञानमपोहनञ्च ।
वेदैश्च सर्वैरहमेव वेद्यो
        वेदान्तकृद्वेदविदेव चाहम् ॥ १५-१५॥

सन्धिः

चाहं  = च (अकः सवर्णे दीर्घः) + अहम्
सन्निविष्टो मत्तः = सन्निविष्टः (हशि च, आद्गुणः) + मत्तः
स्मृतिर्ज्ञानमपोहनञ्च  = स्मृतिः (ससजुषो रुः) + ज्ञानम् + अपोहनम् (मोऽनुस्वारः, वा पदान्तस्य) + च
वेदैश्च = वेदैः (विसर्जनीयस्य सः, स्तोः श्चुना श्चुः) + च
सर्वैरहमेव = सर्वैः (ससजुषो रुः) + अहम् + एव
वेद्यो वेदान्तकृद्वेदविदेव = वेद्यः (हशि च, आद्गुणः) + वेदान्तकृत् (झलां जशोऽन्ते) +वेदवित् (झलां जशोऽन्ते) + एव

अन्वयः

अहम् सर्वस्य हृदि सन्निविष्टः भवामि  च । मत्तः स्मृतिः ज्ञानम् अपोहनम्  (भवति) च । सर्वैः वेदैः च वेद्यः अहम् एव (अस्मि) । अहम् वेदान्तकृत्  वेदवित् एव च (अस्मि) ।

I am seated in the heart of all beings. From me, memory, perceptional knowledge and even forgetfulness manifests. I am the one to be known through all the vedas (means of knowledge). I am the indeed the creator and knower of Veda.


द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १५-१६॥

सन्धिः

द्वाविमौ = द्वौ (एचोऽयवायावः) + इमौ
क्षरश्चाक्षर  एव = क्षरः (विसर्जनीयस्य सः, स्तोः श्चुना श्चुः) + च (अकः सवर्णे दीर्घः) + अक्षरः (भो भगो अघो अपूर्वस्य योऽशि, लोपः शाकल्यस्य) + एव 
कूटस्थोऽक्षर उच्यते  = कूटस्थः (अतो रोरप्लुतादप्लुते) + अक्षरः (भो भगो अघो अपूर्वस्य योऽशि, लोपः शाकल्यस्य) + उच्यते

अन्वयः

लोके क्षरः  च अक्षरः  च  एव द्वौ  इमौ पुरुषौ (स्त) । क्षरः सर्वाणि भूतानि अक्षरः कूटस्थः उच्यते ।

In this world, there are two principals, the perishable and the imperishable. All beings are perishable principal and immutable is imperishable principal.


उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १५-१७॥

सन्धिः

पुरुषस्त्वन्यः = पुरुषः (विसर्जनीयस्य सः) + तु  (इको यणचि) + अन्यः
परमात्मेत्युदाहृतः = परमात्मा (एचोऽयवायावः) + इति  (इको यणचि) + उदाहृतः
यो लोकत्रयमाविश्य = यः (हशि च, आद्गुणः) +  लोकत्रयम् + आविश्य
बिभर्त्यव्यय ईश्वरः = बिभर्ति (इको यणचि) + अव्ययः (भो भगो अघो अपूर्वस्य योऽशि, लोपः शाकल्यस्य) + ईश्वरः

अन्वयः

अन्यः  उत्तमः पुरुषः तु परमात्मा इति  उदाहृतः । यः अव्ययः ईश्वरः लोकत्रयम् आविश्य  बिभर्ति ॥

But another supreme being is called Paramaatma.  The indestructible lord, who, pervading all worlds, sustains them.


यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १५-१८॥

सन्धिः

यस्मात्क्षरमतीतोऽहमक्षरादपि = यस्मात् + क्षरम् + अतीतः (अतो रोरप्लुतादप्लुते) + अहम् + अक्षरात् (झलां जशोऽन्ते) + अपि
चोत्तमः = च (आद्गुणः) + उत्तमः
अतोऽस्मि = अतः (अतो रोरप्लुतादप्लुते)) + अस्मि

अन्वयः

यस्मात्  अहम्  क्षरम्  अतीतः अपि च अक्षरात्  उत्तमः (अस्मि) । अतः (अहम्) लोके वेदे च पुरुषोत्तमः प्रथितः अस्मि ॥

I transcend from perishable and I am even supreme than perishable. I am thus declared as supreme being in this world and in Vedas.


यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥ १५-१९॥

सन्धिः

यो मामेवमसम्मूढो जानाति = यः (हशि च , आद्गुणः) +  माम् + एवम् + असम्मूढः (हशि च , आद्गुणः) + जानाति
स सर्वविद्भजति = सः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि) + सर्वविद् + भजति

अन्वयः

(हे) भारत , यः असम्मूढः एवम् पुरुषोत्तमम्  माम् जानाति , सः सर्वविद् सर्वभावेन माम् भजति ॥

Hey Bharat, he who is undeluded, thus knows me as supreme being. He all-knowing, worships me whole heartedly.


इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ १५-२०॥

सन्धिः

शास्त्रमिदमुक्तं  = शास्त्रम् + इदम् + उक्तम्
मयानघ = मय (अकः सवर्णे दीर्घः) + अनघ
एतद्बुद्ध्वा = एतद् + बुद्ध्वा
बुद्धिमान्स्यात्कृतकृत्यश्च  = बुद्धिमान् + स्यात् + कृतकृत्यः (विसर्जनीयस्य सः, स्तोः श्चुना श्चुः) + च

अन्वयः

(हे) अनघ, मया इति गुह्यतमम् इदम् शास्त्रम् उक्तम् । (हे) भारत, एतद् बुद्ध्वा बुद्धिमान् कृतकृत्यः च स्यात् ॥

Thus, the most secret science (teaching) is taught by me, oh sinless one. Hey Bharat, knowing this, man becomes wise and has accomplished everything.